Devi - 02 - Adya Kali Svarupa Stotra
Adya Kali Svarupa Stotra ह्री/ काली श्री/ कराली च क्री/ कल्याणी कलावती । कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ १२ ॥ कालिका कालमाता च कालानलसमद्युतिः । कपर्दिनी करालास्या करुणामृतसागरा ॥ १३ ॥ कृपामयी कृपाधारा कृपापारा कृपागमा । कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥ १४ ॥ कालरात्रिः कामरूपा कामपाशविमोचनी । कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥ १५ ॥ कुमारीपूजनप्रीता कुमारीपूजकालया । कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥ १६ ॥ कदम्बवनसञ्चारा कदम्बवनवासिनी । कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥ १७ ॥ किशोरी कलकण्ठा च कलनादनिनादिनी । कादम्बरीपानरता तथा कादम्बरीप्रिया ॥ १८ ॥ कपालपात्रनिरता कङ्कालमाल्यधारिणी । कमलासनसन्तुष्टा कमलासनवासिनी ॥ १९ ॥ कमलालयमध्यस्था कमलामोदमोदिनी । कलहंसगतिः क्लैव्यनाशिनी कामरूपिणी ॥ २० ॥ कामरूपकृतावासा कामपीठविलासिनी । कमनीया कल्पलता कमनीयविभूषणा ॥ २१ ॥ कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी । कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥ २२ ॥ कारणानन्दजापेष्टा कारणार्चनहर्षिता । कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ २३ ॥ कस्तूरीसौरभामोदा कस्तूरीतिलकोज्ज्वला । कस्तूरीपूजनरता कस्तूरीपू...