Skip to main content

Posts

Showing posts from August, 2012

Durga Apad Uddhara Ashtaka Stotram

  [work in progress] दुर्गा आपदुद्धाराष्टकस्तोत्रं नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्व्यापिके विश्वरूपे | नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ||१|| नमस्ते जगच्चिन्त्यमानस्वरूपे नमस्ते महायोगिविज्ञानरूपे | नमस्ते नमस्ते सदानन्द रूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ||२|| अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जन्तोः | त्वमेका गतिर्देवि निस्तारकर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ||३|| अरण्ये रणे दारुणे शुत्रुमध्ये जले सङ्कटे राजग्रेहे प्रवाते | त्वमेका गतिर्देवि निस्तार हेतुर्नमस्ते जगत्तारिणि त्राहि दुर्गे ||४|| अपारे महदुस्तरेऽत्यन्तघोरे विपत् सागरे मज्जतां देहभाजाम् | त्वमेका गतिर्देवि निस्तारनौका नमस्ते जगत्तारिणि त्राहि दुर्गे ||५|| नमश्चण्डिके चण्डोर्दण्डलीलासमुत्खण्डिता खण्डलाशेषशत्रोः | त्वमेका गतिर्विघ्नसन्दोहहर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ||६|| त्वमेका सदाराधिता सत्यवादिन्यनेकाखिला क्रोधना क्रोधनिष्ठा | इडा पिङ्गला त्वं सुषुम्ना च नाडी नमस्ते जगत्तारिणि त्राहि दुर्गे ||७|| नमो देवि दुर्गे शिवे भीमनादे स

Bagalamukhi Shatanama Stotram - Hymn of 100 Names of Bagala Ma

वगलामुख्यः शतनामस्तोत्रम् ॐ वशिनी वशपूज्या च वलिका वसुदा वसुः । वाग्वादिनी वयोरूपा बलाबलवती तथा ॥ 1 विषमा विकटा वेधा विशाला विमना विधिः । विद्या च वेदरूपा च बन्ध्या च वेशधारिणी ॥ 2 वेणी च विकटा वेश्या नानावेश परिच्छदा । वयो रूपा च वृद्धा विकला वसुमतीति च ॥ 3 वगला वामनी देवी विष्णुपूज्या विनोदिनी । वैष्णवी शिष्ण माता च वाराही ब्राह्मणी वरा ॥ 4 वलावलवती वाला विधेश्च परिपूजिता । विशिष्टा ब्रह्मपूज्या च नानावेश विनोदिनी ॥ 5 वैकुण्ठरूपिणी ब्राह्मी विधिपूज्या विधुन्तुदा । वल्लभा वलरूपा च अशेष वलधारिणी ॥ 6 वेदज्ञा वेदमाता च विशाल नयनोज्ज्वला । वेदमाता विमाता च वेदगर्भा विमोक्षणी ॥ 7 विरूपाक्षी वला वाली कृष्णविमलरूपिणी । वाराही च वलाका च वलिनो वर्णरूपिणो ॥ 8 गन्धिनी गन्धरूपा च गयागङ्गाप्रभा तथा । गोवर्धनी च गोविन्दपूजिता च गदाधरी ॥ 9 गहना गुह्यरूपा च गोरूपा गोकुलेश्वरी । गोलोकवासिनी चैव नित्या गोलोकरूपिणी ॥ 10 गरिमा च गरिष्ठा नित्या गोवर्धनरूपिणी । गङ्गाधरी च गोविन्दा गोविन्दपूजिता गदा ॥ 11 गहना गुह्यरूपा च तथैव गन्धरूपिणी । गणार्हा गानदागानरूपिणी गण मोहिनी ॥ 12 नी