Nasadiya Sukta - Summary
Below is the Sanskrit Text, Bengali Text, ITRANS transliteration and translation/summary of the entire Nasadiya Sukta. नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत् किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम् न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं चनास तम आसीत् तमसा गूऌहम् अग्रे ऽप्रकेतं सलिलं सर्वम् आ इदम् तुच्छ्येनाभ्व् अपिहितं यद् आसीत् तपसस् तन् महिनाजायतैकम् कामस् तद् अग्रे सम् अवर्तताधि मनसो रेतः प्रथमं यद् आसीत् सतो बन्धुम् असति निर् अविन्दन् हृदि प्रतीष्या कवयो मनीषा तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी३द् उपरि स्विद् आसीत् रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयतिः परस्तात् को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव इयं विसृष्टिर् यत आबभूव यदि वा दधे यदि वा न यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद নাসদ আসীন নো সদ আসীত তদানীং নাসীদ রজো নো ব্যোমা পরো যত কিম আবরীবঃ কুহ কস্...