Mahamrityunjaya Stotram

महामृत्युज्ञ्जय स्तोत्रं / মহামৃত্যুঞ্জয় স্তোত্রং / mahAmR^ityuJNjaya stotraM महामृत्युज्ञ्जय स्तोत्रं चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तस्थितं मुद्रापाशमृगाक्शसत्रविलसत्पाणिं हिमांशुप्रभम् । कोटीन्दुप्रगलत्सुधाप्लुततमुं हारादिभूषोज्ज्वलं कान्तं विश्वविमोहनं पशुपतिं मृत्युज्ञ्जयं भावयेत् ॥ रुद्रं पशुपतिं स्थाणुं नीलकण्ठम् उमापतिम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १॥ नीलकन्ठं कालमूर्त्तिं कालज्ञं कालनाशनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ २॥ नीलकण्ठं विरूपाक्शं निर्मलं निलयप्रदम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ३॥ वामदेवं महादेवं लोकनाथं जगद्गुरुम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ४॥ देवदेवं जगन्नाथं देवेशं वृषभध्वजम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ५॥ त्र्यक्शं चतुर्भुजं शान्तं जटामकुटधारिणम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६॥ गङ्गाधरं महादेवं सर्वाभरणभूषितम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७॥ भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति...