कविकङ्कन मुकुन्दराम चक्रवर्ती

कविकङ्कन मुकुन्दराम चक्रवर्ती कविकङ्कन-मुकुन्दराम-चक्रवर्ती (कलियुग ४६२४ - ४७०२ / ख्रिस्ताब्द १५४० - १६०० ) मध्ययुगस्य वङ्गीय-साहित्य-कविः । तस्य पैतृक-निवासः पश्चिमवङ्गस्य वर्धमान-मण्डल-स्थितं दामुन्या-ग्रामे आसीत् । काव्य-चण्डीमङ्गलः (वा चण्डी) इति श्रीमुकुन्दः रचितवान् । प्रायः पङ्चसप्तत्यधिक-शत-वर्ष-पूर्वे (४९२४ कलियुगे / १८२२ ख्रिस्टाब्दे) श्रीमुकुन्दस्य अयं ग्रन्थः प्रथम-प्रकाशितः।